|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.94. अध्यायः 094
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रत्यगस्त्यचरितकथनारम्भः ॥ 1 ॥ वातापील्वलवृत्तकधनम् ॥ 2 ॥ तथा लोपामुद्रोत्पत्तिप्रकारकथनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-94-0x(2009)(19854)
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः।
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥ 3-94-1(19855)
तत्रैव लोमशं राजा पप्रच्छ वदतांवरः।
अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥ 3-94-2(19856)
आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः।
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः ॥ 3-94-3(19857)
लोमश उवाच। 3-94-4x(2010)
इल्वलो नाम दैतेय आसीत्कौरवनन्दना।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥ 3-94-4(19858)
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः।
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ 3-94-5(19859)
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्।
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ 3-94-6(19860)
तदाप्रभृतिराजेन्द्र इल्वलो ब्रह्महाऽसुरः।
मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः ॥ 3-94-7(19861)
मेषरूपी च वातापिः कामरूप्यभवत्क्षणात्।
संस्कृत्यतं भोजयति ततो विप्रं जिधांसति ॥ 3-94-8(19862)
स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्।
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥ 3-94-9(19863)
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्।
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ 3-94-10(19864)
तामिल्वलेन महता स्वरेण गिरमीरिताम्।
श्रुत्वाऽतिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः ॥ 3-94-11(19865)
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः।
वातापिः प्रहसन्राजन्निश्चक्राम विशांपते ॥ 3-94-12(19866)
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः।
हिंसयामायस दैतेय इल्वलो दुष्टचेतनः ॥ 3-94-13(19867)
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु।
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥ 3-94-14(19868)
सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किंपराः।
`किंमर्थं वेह लम्बध्वे गर्ते यूयमधोमुखाः'।
संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः ॥ 3-94-15(19869)
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः।
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥ 3-94-16(19870)
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्।
स्यान्नोस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥ 3-94-17(19871)
स तानुवाच तेजस्वी सत्यधर्मपरायणः।
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥ 3-94-18(19872)
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः।
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥ 3-94-19(19873)
स तस्य तस् सत्वस्य तत्तदङ्गमनुत्तमम्।
संगृह्यतत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥ 3-94-20(19874)
स तां विदर्भराजाय पुत्रकामाय ताम्यते।
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥ 3-94-21(19875)
सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा।
विभ्राजमाना वपुषा व्यवर्धत शुभानना ॥ 3-94-22(19876)
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः।
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥ 3-94-23(19877)
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप।
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥ 3-94-24(19878)
ववृधे सा महाराज बिभ्रती रूपमुत्तमम्।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥ 3-94-25(19879)
तां यौवनस्थां राजेन्द्रशतं कन्याः स्वलंकृताः।
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः ॥ 3-94-26(19880)
सा स्म दासीशतवृता मध्ये कन्याशतस्य च।
आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा ॥ 3-94-27(19881)
यौवनस्थामपि च तां शीलाचारसमन्विताम्।
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥ 3-94-28(19882)
सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति।
तोषयामास पितरं शीलेन स्वजनं तथा ॥ 3-94-29(19883)
वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता।
मनसा चिन्तयामास कस्मै दद्यामिमांसुताम् ॥ 3-94-30(19884)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-94-1 दुर्जयायां वातापिपुर्यां मणिमतीसंज्ञायाम् ॥ 3-94-6 नादात् न दत्तवान् ॥ 3-94-8 कामरूपी यथाकामं रूपाणि कर्तुं समर्थः। संस्कृत्य पक्त्वा ॥ 3-94-9 स च इल्वलश्च ॥ 3-94-19 प्रसवसन्तानं संततेरविच्छेदम् ॥ 3-94-20 तस्य तस्य सिंहमृगादेः अङ्गं कटिदृष्ठ्यादि। सर्वगुणवतीमित्यर्थः ॥ 3-94-22 जज्ञे जाता। विद्युदिति विशेषणं द्युतिविशेषोपपादनार्थम् ॥ 3-94-24 मुद्राणां तत्तन्मृगादिजातिगतानामसाधारणानां चिह्नानां कमनीयचक्षुष्ट्वानां लोपइव लोपस्तिरस्कारो यया सा लोपामुद्रा। आहिताग्न्यादिवत्पूर्वनिपातः। अन्येष्वपि दृश्यत इति दीर्घः ॥ 3-94-26 वशानुगाः इच्छानुरूपाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|